Class 9 Sanskrit Grammar Book Solutions सङ्केताधारितम् औपचारिकं अथवा अनौपचारिक पत्रम्

ncert books

Class 9 Sanskrit Grammar Book Solutions सङ्केताधारितम् औपचारिकं अथवा अनौपचारिक पत्रम्

परीक्षोपयोगीनि विविध पत्राणि

 

प्रश्न 1.
स्वविद्यालयस्य वार्षिकोत्सवं वर्णयन्तः मित्रं प्रति लिखिते पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्तस्थानानि पूरयत (अपने विद्यालय के वार्षिक उत्सव का वर्णन करते हुए मित्र को लिखे गए पत्र में, मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।)

(i) …………..
तिथि: 30-08-20……..

 

प्रिय (ii) ………….
(iii) ……………..
भवतः पत्रं प्राप्तम्। अहं स्वविद्यालयस्य (iv) ……………….. वर्णयामि। एकमास पूर्वमेव (v) ………………. सर्वे अध्यापकाः (vi) ……………….. च कार्येष व्यस्ताः आसन । शिक्षा निदेशकः कार्यक्रमस्य (vii) ……….. “आसीत्। सः (viii) ……………… अतीव प्राशंसत, योग्येभ्यः छात्रेभ्यः च (ix) ………… अयच्छत्। पितृभ्याम् नमः।

भवत: (x)
क० ख० ग०

 

मञ्जूषा-सुहृद्, नमस्ते, कार्यक्रमम्, छात्राः, विद्यालये, अध्यक्षः, पारितोषिकान्, वार्षिकोत्सवम्, परीक्षाभवनम्, सोमेश

उत्तर:

(i) परीक्षाभवनम् प्रिय
तिथि: 30-08-20……..

प्रिय (ii) सोमेश
(iii) नमस्ते
भवतः पत्रं प्राप्तम् । अहं स्वविद्यालयस्य (iv) वार्षिकोत्सवम् वर्णयामि । एकमास पूर्वमेव (v) विद्यालये सर्वे अध्यापकाः (vi) छात्राः च कार्येषु व्यस्ताः आसन् । शिक्षा निदेशकः कार्यक्रमस्य (vii) अध्यक्षः आसीत्। सः (viii) कार्यक्रमम् अतीव प्राशंसत्, योग्येभ्यः छात्रेभ्यः च (ix) पारितोषिकान् अयच्छत्। पितृभ्याम् नमः।

 

भवतः (x) सुहृद्
क० ख० ग०

प्रश्न 2.
भवान् वाराणस्यां स्थितः उमेशः। भवतः मित्रं सोमेन्द्रः प्रयागे वसति। सः नवम कक्षायां प्रथमश्रेण्याम् उत्तीर्णः। तं प्रति लिखिते वर्धापन पत्रे मञ्जूषायाः उचितपदानि चित्वा रिक्तस्थानानि पूरयत . आप वाराणसी में स्थित उमेश हैं। आपका मित्र सोमेन्द्र प्रयाग में रहता है। वह नवमी कक्षा में प्रथम श्रेणी में उत्तीर्ण हुआ है। उसके हेतु लिए गए बधाई-पत्र में मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए।)

 

लक्ष्मीनारायण संस्कृत विद्यालयः
(i) …………
दिनाङ्कः 12-9-20……..

प्रिय मित्र ! (ii)……………
नमस्ते।
अत्र कुशलं (iii)……………….। भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv)…………….. प्रथमं स्थान प्राप्तवान्। इदं (v)……………… मम चित्तं प्रफुल्लितम् जातम्। (vi)……………… एतत् सर्वं तव सतत परिश्रमस्य एव फलम् अस्ति। मम गृहस्य सर्वेषाम् (vii)……………. पक्षतः भवते वर्धापनानि। भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii)………………अस्माकं शुभा कामना। मातृपितृचरणेषु (ix) ………… प्रणामाः । अनुजाय स्नेहराशिः।

 

भवतः सुहृद्
(x)…………..

मञ्जूषा-वाराणसीतः, मित्रवर्य!, तत्रास्तु, मम, एषा, ज्ञात्वा, उमेशः, परीक्षायाम, सदस्यानाम्, सोमेन्द्र !
उत्तर:

लक्ष्मीनारायण संस्कृत विद्यालयः
(i) वाराणसीतः
दिनाङ्कः 12-9-20……..

प्रिय मित्र ! (ii) सोमेन्द्र!
नमस्ते।
अत्र कुशलं (iii) तत्रास्तु। भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (iv) परीक्षायाम् प्रथम स्थान प्राप्तवान्। इदं (v) ज्ञात्वा मम चित्तं प्रफुल्लितम् जातम्। (vi) मित्रवर्य! एतत् सर्वं तव सतत परिश्रमस्य एव फलम् अस्ति। मम गृहस्य सर्वेषाम् (vii) सदस्यानाम् पक्षतः भवते वर्धापनानि। भवान् उत्तरोत्तरं सफलतां प्राप्नोतु (viii) एषा अस्माकं शुभा कामना। मातृपितृचरणेषु (ix) मम प्रणामाः । अनुजाय स्नेहराशिः ।

भवतः सुहद्
(x) उमेशः

प्रश्न 3.
अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मञ्जूषायाः पदानि चित्वारिक्तस्थानानि पूरयत (अस्वस्थ होने के कारण दो दिन के अवकाश के लिए प्रधानाचार्य को लिखे गए प्रार्थना-पत्र में मञ्जूषा से पद चुनकर खाली स्थान भरिए।)

परीक्षाभवनम्

आदरणीयाः (i)……………….. |
विषय- अवकाशप्राप्तये निवेदनम्।
सविनयं (ii)………………. अस्ति यत् अहं (iii)………………. आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम्
आगन्तुम् (iv)………………. अस्मि। अतः मह्यम् (v)………………. अवकाशं प्रदाय (vi)……… अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii). …. भविष्यति ताम् (viii). ……… यतिष्ये। (ix)……………

भवदीयः शिष्यः
क० ख० ग०

तिथि: (x)…………..

मञ्जूषा-दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20……….

उत्तर:

परीक्षाभवनम्

आदरणीयाः (i) प्रधानाचार्याः
विषय– अवकाशप्राप्तये निवेदनम्
सविनयं (ii) निवेदनम् अस्ति यत् अहं (iii) तीव्रज्वरेण आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv) असमर्थः अस्मि। अतः मह्यम् (v) दिनद्वयस्य अवकाशं प्रदाय (vi) माम् अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii) हानिः भविष्यति ताम् (viii) दूरीकर्तुम् यतिष्ये। (ix) धन्यवादः

भवदीयः शिष्यः
क० ख० ग०

तिथि: (x) 20-8-20…………..

प्रश्न 4.
विद्यालयस्य प्रधानाचार्यां प्रति लिखिते शुल्कक्षमाप्रार्थनापत्रे मञ्जूषायाः समुचितपदैः रिक्तस्थानानि पूरयत (विद्यालय की प्रधानाचार्या को लिखे गए शुल्क माफी प्रार्थना-पत्र में मञ्जूषा के समुचित पदों से खाली स्थान भरिए।)

परीक्षाभवनात्

आदरणीयाः (i) ………
विषय-शुल्कक्षमापनार्थं निवेदनम्
(ii)…………..
(iii)…………. निवेदनम् अस्ति यत् मम पिता एकस्मिन् सर्वकारविद्यालये (iv)………………. अस्ति। तस्य मासिकं (v)………………. द्विसहस्त्र रूप्यकाणि अस्ति। अस्माकं परिवारे (vi)………………. सन्ति। अस्मिन् सीमिते वर्तने विद्यालयस्य (vii)…………….अतीव कठिनम् अस्ति। कृपया तदर्थं (viii)…………प्रदाय (ix) …………… माम् अनगहणन्त। (x) …………….

भवदीया
आज्ञाकारिणी शिष्या
क० ख० ग०

तिथि : 24-7-20….

मञ्जूषा-सधन्यवादम्, भवत्यः, शिक्षाशुल्कप्रदानम्, वर्तनम्, लिपिकः, महोदयाः, प्रधानाचार्याः सदस्याः, सविनयम्, स्वीकृतिम् ।

उत्तर:
परीक्षाभवनात्
आदरणीयाः (i) प्रधानाचार्याः विषय- शुल्कक्षमापनार्थं निवेदनम्। (ii) महोदयाः (iii) सविनयम् निवेदनम् अस्ति यत् मम पिता एकस्मिन् सर्वकारविद्यालये (iv) लिपिकः अस्ति। तस्य मासिकं (v) वर्तनम् द्विसहस्त्र रूप्यकाणि अस्ति। अस्माकं परिवारे (vi) सदस्याः सन्ति। अस्मिन् सीमिते वर्तने विद्यालयस्य (vii) शिक्षाशुल्कप्रदानम् अतीव कठिनम् अस्ति। कृपया तदर्थं (viii) स्वीकृतिम् प्रदाय (ix) भवत्यः माम्
अनुगृह्णन्तु। (x) सधन्यवादम्

भवदीया आज्ञाकारिणी शिष्या
क० ख० ग०

तिथि : 24-7-20……..

प्रश्न 5.
भवत्याः नाम लतिका। भवति ‘सुरवाणी सन्देशः’ इति पत्रिका पठति । ग्राहक शुल्के समाप्ते सति अग्रिमवर्षार्थं शुल्क प्रेषणाय अत्र लिखिते पत्रे रिक्तस्थान पूर्तिः क्रियताम् सहायतार्थे शब्दाः मञ्जूषायां प्रदत्ताः।। (आपका नाम लतिका है। आप ‘सुरवाणी सन्देश’ पत्रिका पढ़ती हैं। ग्राहक शुल्क समाप्त हो जाने पर अग्रिम वर्ष के लिए शुल्क भेजने के लिए लिखे गए पत्र में खाली स्थानों की पूर्ति कीजिए। सहायता के लिए शब्द मञ्जूषा में दिए गए हैं।)

88, आदर्शनगरम्
दिल्ली-110033
11 दिसम्बर 20……

(i)……………… सम्पादक महोदय !
सादरं (ii). ………………. ।
अहम् ‘सुरवाणी सन्देशः’ इति (iii)……………….. नियमिता पाठिका अस्मि । मम (iv)……………….. अस्य वर्षस्य दिसम्बरमासे समाप्तम् भवति। अतः अनेन पत्रेण (v)………………. वार्षिकं ग्राहकशुल्कं 110/- रूप्यकाणि ‘स्टेट बैंक ऑफ इण्डिया’ इति द्वारा (vi)……………… बैंक ड्राफ्ट संख्या 80065, 10-12-20…….. दिनाङ्कितं (vii)……………… । कृपया प्राप्तिपत्रं (viii)……………… अनुगृहीतां कुर्वन्तु । (ix)……….

(x) ………………..
संस्कृतोपासिका, लतिका

मञ्जूषा-पत्रिकायाः, सार्धम्, आदरणीय, सधन्यवादम्, संलग्नम्, ग्राहकशुल्कम्, प्रेषयित्वा, भवदीया, वन्दे, प्रदेयम् ।
उत्तर:

88, आदर्शनगरम्
दिल्ली-110033
11 दिसम्बर 20…………..

(i) आदरणीय सम्पादक महोदय !
सादरं (ii) वन्दे
अहम् ‘सुरवाणी सन्देशः’ इति (iii) पत्रिकायाः नियमिता पाठिका अस्मि। मम (iv) ग्राहकशुल्कम् अस्य वर्षस्य दिसम्बरमासे समाप्तम् भवति । अतः अनेन पत्रेण (v) सार्धम् वार्षिकं ग्राहकशुल्कं 110/- रुप्यकाणि ‘स्टेट बैंक ऑफ इण्डिया’ इति द्वारा (vi) प्रदेयम् बैंक ड्राफ्ट संख्या 80065, 10-12-20…….. दिनाङ्कितं (vii) संलग्नम्। कृपया प्राप्तिपत्रं (viii) प्रेषयित्वा अनुगृहीतां कुर्वन्तु। (ix) सधन्यवादम्

(x) भवदीया
संस्कृतोपासिका, लतिका

प्रश्न 6.
आगरा निवासी भवान् परमानन्दः अस्ति । दीपमालाविषये स्व मित्रं शङ्करं प्रति लेखितम् इदं पत्रं भवान् मञ्जूषायाःसमुचितान् शब्दान् नीत्वा सार्थकरूपेण सम्पूरयन् पुनर्लिखतु। (आप आगरा में निवास करने वाले परमानन्द हैं। दीपावली के विषय में अपने मित्र शंकर को लिखा यह पत्र आप मञ्जूषा के उचित शब्दों की सहायता से सार्थक रूप से पूरा करते हुए पुनः लिखिए।)

केशवकुञ्जः,
(i) ………………..।
तिथि: 27.4.20……..

प्रियमित्र (ii) ……………
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। अस्मिन् वर्षे मया (iii) ………….. पारिवारिकजनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानितः। स्वभ्रातृभिः भगिनीभिः सह मिलित्वा (iv) ……………….. दीपकाः पङ्कितशः कृत्वा प्रदीप्ताः । क्वचिद् विविधाकारा: बलभाः, क्वचित् च (v) …………… संस्थिताः । रात्रौ (vi) ………. अपि विहितम् । मम मात्रा गृहे विविधानि मिष्टान्नानि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः, (vii) …………….. तस्य वितरणं कृतम्। अपूर्वेयं (viii) ………….. आशासे भवताऽपि दीपमालिकोत्सवः महतोत्साहेन मानितः भवेत् । (ix) …………….. सहितम्।

(x) ……
परमानन्दः

मञ्जूषा- लक्ष्मी पूजनम्, स्मृतिः, शंकर, बन्धुबान्धवेभ्योऽपि, चतुःवर्षानन्तरं, असंख्यकाः, धन्यवादेन, आगरा,मोमवर्तिकाः, भवदीयं मित्रम्
उत्तर:

केशवकुञ्जः,
(i) आगरा।
तिथि: 27.4.20……..

प्रियमित्र (ii) शंकर,
सप्रेम नमोनमः। अत्र कुशलं तत्रास्तु। अस्मिन् वर्षे मया (iii) चतुःवर्षानन्तरं पारिवारिकजनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानितः । स्वभ्रातृभिः भगिनीभिः सह मिलित्वा (iv) असंख्यकाः दीपकाः पङ्कितशः कृत्वा प्रदीप्ताः । क्वचिद् विविधाकाराः बलभाः, क्वचित् च (v) मोमवर्तिकाः संस्थिताः । रात्रौ (vi) लक्ष्मी पूजनम् अपि विहितम्। मम मात्रा गृहे विविधानि मिष्टान्नानि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः, (vii) बन्धुबान्धवेभ्योऽपि तस्य वितरणं कृतम्। अपूर्वेयं (viii) स्मृतिः। आशासे भवताऽपि दीपमालिकोत्सवः महतोत्साहेन मानितः भवेत्। (ix) धन्यवादेन सहितम्।

(x) भवदीयं मित्रम्,
परमानन्दः

प्रश्न 7.
भवान् संजीवः स्वमित्राय एशियाडक्रीडाविषयकं पत्रम् लिखति। तस्मिन् पत्रे क्रीडायाः वर्णनं करोति। भवान् स्वपत्रं मञ्जूषायाः सहायतां गृहीत्वा पुनर्लिखतु। (आप संजीव अपने मित्र को एशियाड खेलों के विषय में पत्र लिख रहे हैं और उस पत्र में खेलों का वर्णन करते हैं। आप अपने पत्र को मञ्जूषा की सहायता लेकर फिर से लिखिए।)

परीक्षाभवनम्।
दिनाङ्कः 20.9.20……..

प्रियमित्र राजवीर,
सस्नेहं (i) …………… | भवान् सम्यक् (ii) ………….. एव यद् त्रयोविंशतिवर्षपूर्वं भारतदेशे नवम्-एशियाड-क्रीडा (iii) ……………. सम्पन्नः आसीत्, तत्र च एकविंशतिः क्रीडाः क्रीडिताः। तासु क्रीडासु (iv) ……………….. प्रतियोगिता मह्यम् अतिशयरुचिकरा आसीत्। भारतदेशः एतस्यां क्रीडायां त्रीन् स्वर्णपदकान् एकं (v) ………………… एकं च रजतपदकमपि जितवान्। भारतीयाः अश्वारोहिणः अतीव उत्साहवन्तः आसन् ते च वायुना सह आकाशे (vi) ……………… प्रतीयन्ते स्म। अद्यापि अहं तद् दृश्यम् अधुनैव (vii) ………………इव अनुभवामि । (viii) …………….. सादरं नमः।

(ix) ………………. अभिन्नहृदयः,
(x) ……….

मञ्जूषा-पितृभ्याम, घटमानम, महोत्सवः, जानाति, संजीवः, अश्वारोहणधावन, तव, नमस्कारम्, उड्डीयमानाः, कांस्यपदकम्।
उत्तर:

परीक्षासदनम्
दिनाङ्कः 20.9.20……..

प्रियमित्र राजवीर,
सस्नेहं (i) नमस्कारम्
भवान् सम्यक् (ii) जानाति एव यद् त्रयोविंशतिवर्षपूर्वं भारतदेशे नवम्-एशियाड-क्रीडा (iii) महोत्सवः सम्पन्नः आसीत्, तत्र च एकविंशतिः क्रीडाः क्रीडिताः । तासु क्रीडासु (iv) अश्वारोहणधावन प्रतियोगिता मह्यम् अतिशयरुचिकरा आसीत्। भारतदेशः एतस्यां क्रीडायां त्रीन् स्वर्णपदकान् एकं (v) कांस्यपदकम् एकं च रजतपदकमपि जितवान् । भारतीयाः अश्वारोहिण: अतीव उत्साहवन्तः आसन् ते च वायुना सह आकाशे (vi) उड्डीयमानाः प्रतीयन्ते स्म । अद्यापि अहं तद् दृश्यम् अधुनैव (vii) घटमानम् इव अनुभवामि। (viii) पितृभ्याम् सादरं नमः ।

(ix) तव अभिन्नहृदयः,
(x) संजीवः

 

प्रश्न 8.
मित्राय भगिनीविवाहस्य निमंत्रणपत्रम् भवान् विनोदः प्रयागात् लेखितुमिच्छति। अतः मञ्जूषायाः उचितैः पदैः रिक्तस्थानानि पूरयन् पत्रस्य पूर्तिः कृत्वा पत्रं पुनर्लिखतु भवान्। (आप विनोद प्रयाग से अपनी बहन के विवाह का निमन्त्रण-पत्र मित्र को लिखना चाहते हैं। अत: मञ्जूषा के उचित शब्दों से रिक्त स्थानों की पूर्ति करके इस पत्र को आप फिर से लिखिए।)

938, सेक्टर-4,
अरबन इस्टेट,
(i) …………….

तिथि: 20.7.20……
(ii) …………….. राहुल,
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। इदं (iii) ……………….. वृत्तं भवन्तं सूचयित्वा अहम् अतीव आनन्दम् अनुभवामि यत् मम भगिन्याः विवाह: (iv) …………….. दशम्यां तारिकायां, बुधवासरे, निश्चितः जातः । वरयात्रा (v) ……………….. आगमिष्यति। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वम् अत्र (vi) . ……….. पूर्वतः एव प्राप्तः स्याः । भवता पितृभ्यां सह अत्र अवश्यमेव आगन्तव्यम्। भवतां (vii) ……… सङ्गतिं साहाय्यं च अहं कामये। आदरणीयाभ्यां (viii) ……………….. सस्नेह नमोनमः। तव पत्रोत्तरं (ix) ………….|

(x) …………..

मञ्जूषा-स्निग्धां, प्रीतिदायकं, विनोदः, त्रिचतुर्दिनानि, प्रियमित्र, प्रयागम्, पितृभ्याम्, लक्ष्मणपुराद्, प्रतीक्षमाणः, अग्रिममासस्य।।
उत्तर:

938, सेक्टर-4,
अरबन इस्टेट,
(i) प्रयागम्
तिथि: 20.7.20……..

(ii) प्रियमित्र राहुल,
सप्रेम नमोनमः। अत्र कुशलं तत्रास्तु । इदं (iii) प्रीतिदायकं वृत्तं भवन्तं सूचयित्वा अहम् अतीव आनन्दम् अनुभवामि यत् मम भगिन्याः विवाहः (iv) अग्रिममासस्य दशम्यां तारिकायां, बुधवासरे, निश्चितः जातः । वरयात्रा (v) लक्ष्मणपुराद् आगमिष्यति। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वम् अत्र (vi) त्रिचतुर्दिनानि पूर्वतः एव प्राप्तः स्याः । भवता पितृभ्यां सह अत्र अवश्यमेव आगन्तव्यम् । भवतां (vii) स्निग्धां सङ्गतिं साहाय्यं च अहं कामये। आदरणीयाभ्यां (viii) पितृभ्याम् सस्नेह नमोनमः । तव पत्रोत्तरं (ix) प्रतीक्षमाणः

भवत्सुहृद्,
(x) विनोदः

 

प्रश्न 9.
भवतः नाम राकेशः अस्ति । पितृनिधनशोकग्रस्तं स्वमित्रं दिनेशं प्रति लिखितमिदं सान्त्वनापत्रम् मञ्जूषायाः समुचितपदैः पूरयित्वा पुनर्लिखतु।(आपका नाम राकेश है। पिता की मृत्यु से शोक से पीड़ित अपने मित्र दिनेश को लिखे हुए इस सान्त्वना-पत्र को मञ्जूषा के उचित शब्दों से पूरा करते हुए फिर से लिखिए।)

(i) ……………….. छात्रावासः
हमीरपुरम्।
दिनाङ्कः 11.10.20……..

(ii) ……………….. दिनेश, नमोनमः। तव पत्रे (ii) ………………. निधनविषयिकी सूचनाम् अधिगम्य मम हृदये (iv) ………………. इव अभूत् । तव उपरि अयम् कीदृशः (v) ……………….. प्रहारः विधातुः? भवान् न केवलम् (vi) ………………. एव, अपितु मातरमपि समाश्वासयतु । शोकेन रोदनेन च न किमपि (vii) ………… । भगवान् भवद्भ्यः दुःखसहनक्षमता (viii) ………….. इति (ix) ………….. भवदीयं मित्रम्, (x) …………

मञ्जूषा-वज्रपात, प्रार्थना, श्रीराम, आत्मानम्, प्रिय मित्र!, पूज्यपितृपादानां, मार्मिकः, सिध्यति, राकेशः, दद्यात्।
उत्तर:

(i) श्रीराम छात्रावासः
हमीरपुरम्।
दिनाङ्कः 11.10.20……..

(ii) प्रिय मित्र! दिनेश,
नमोनमः । तव पत्रे (iii) पूज्यपितृपादानां निधनविषयिकी सूचनाम् अधिगम्य मम हृदये (iv) वज्रपात इव अभूत् । तव उपरि अयम् कीदृशः (v) मार्मिकः प्रहारः विधातुः? भवान् न केवलम् (vi) आत्मानम् एव, अपितु मातरमपि समाश्वासयतु। शोकेन रोदनेन च न किमपि (vii) सिध्यति । भगवान् भवद्भ्यः दुःखसहनक्षमतां (viii) दद्यात् इति (ix) प्रार्थना

भवदीयं मित्रम्,
(x) राकेशः

प्रश्न 10.
भवान् राकेश पर्वतयात्रा निमंत्रण-विषयकं स्वमित्रं प्रति एकं पत्रम् लेखितुमिच्छति। भवान् तत्पत्रं अधोलिखितायाः
मञ्जूषायाः उचितान् पदान् नीत्वा रिक्तस्थानानि पूरयन् पुनर्लिखत। (आप अपने मित्र राकेश को पर्वत यात्रा के निमन्त्रण के विषय में एक पत्र लिखना चाहते हैं। आप यह पत्र नीचे लिखी मञ्जूषा से उचित शब्दों को लेकर खाली स्थानों को पूरा करते हुए फिर से लिखिए।)

(i) ………………..
इलाहाबादम्
दिनाङ्कः 3.9.20……..

(ii) ………..
सप्रेम नमोनमः।
अत्र (iii) ………….. तत्रास्तु। अप्रैलमासस्य (iv) ……………….. तिथौ अस्माकं परीक्षा समाप्ता (v) ……………..। तदनन्तरम् (vi) ……………. पर्वतीयभ्रमणम् अस्माकं कृते आयोजितम्। अयम् ……….. अतीव शिक्षाप्रदः भविष्यति। अस्मिन् अवसरे वयम् सर्वे (viii) ……… सङ्गतिम् अपि कामयामहे । अहम् (ix) ………. प्रतीक्षां करिष्यामि।

भवदीयं मित्रम्,
(x) ……..

मञ्जूषा-प्रियहर्ष, राकेशः, प्रयाग भवनम्, भवताम्, कुशलम्, भविष्यति, पञ्चम्याम्, कार्यक्रमः, तव, पञ्चदिनपरिमितम्।

उत्तर:

(i) प्रयाग भवनम्
इलाहाबादम्
दिनाङ्कः 3.9.20…….

(ii) प्रियहर्ष,
सप्रेम नमोनमः।
अत्र (iii) कुशलम् तत्रास्तु। अप्रैलमासस्य (iv) पञ्चम्याम् तिथौ अस्माकं परीक्षा समाप्ता (v) भविष्यति। तदनन्तरम् (vi) पञ्चदिनपरिमितम् पर्वतीयभ्रमणम् अस्माकं कृते आयोजितम्। अयम् (vi) कार्यक्रमः अतीव शिक्षाप्रदः भविष्यति। अस्मिन् अवसरे वयम् सर्वे (viii) भवताम् सङ्गतिम् अपि कामयामहे । अहम् (ix) तव प्रतीक्षां करिष्यामि।

भवदीयं मित्रम्,
(x) राकेशः

प्रश्न 11.
स्वविद्यालयस्य वर्णनं कुर्वन्तः मित्रं प्रति लिखिते अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत।
(अपने विद्यालय का वर्णन करते हुए मित्र को लिखे इस पत्र में खाली स्थानों को मञ्जूषा में दिए गए शब्दों की सहायता से पूरा कीजिए।)

(i) ………..
तिथि: 20.12.20……..

प्रिय (ii) ………..
(iii) ……….. भवतः पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) …………… कर्तुम् इच्छामि। मम (v) ……………. अतीव (vi) ….. अस्ति। मम विद्यालये विशालं (vii) ……………….”, समृद्धाः प्रयोगशालाः, सुन्दरः (viii) ……………….. च सन्ति । उपप्रधानाचार्यः अतीव कर्मठः (ix) ………. ……. च अस्ति ।अस्माकम (x) ……………….. मनोयोगेन पाठयन्ति । सर्वे छात्राः अपि योग्याः सन्ति। विस्तरेण पुनः लेखिष्यामि।

तव मित्रम्,
क० ख० ग०

मञ्जूषा-वर्णनं, नमस्ते, क्रीडाक्षेत्रम्, विद्यालयः, शोभनः, पुस्तकालयः, सद्व्यवहारशीलः, परीक्षाभवनम्, वयस्य, अध्यापकाः।
उत्तर:

(i) परीक्षाभवनम्
तिथि: 20.12.20……..

प्रिय (ii) वयस्य,
(iii) नमस्ते
भवतः पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) वर्णनं कर्तुम् इच्छामि। मम (v) विद्यालयः अतीव (vi) शोभनः अस्ति। मम विद्यालये विशालं (vii) क्रीडाक्षेत्रम्, समृद्धाः प्रयोगशालाः, सुन्दरः (viii) पुस्तकालयः च सन्ति । उपप्रधानाचार्यः अतीव कर्मठः (ix) सद्व्यवहारशीलः च अस्ति। अस्माकम् (x) अध्यापकाः मनोयोगेन पाठयन्ति। सर्वे छात्राः अपि योग्याः सन्ति । विस्तरेण पुन: लेखिष्यामि।

तव मित्रम्,
क० ख० ग०

 

प्रश्न 12.
भवान् नर्मदेश्वरः। भवतः पितृ महोदयः उज्जैन नगरे सर्वकारस्य सेवां करोति। सः षण्मासेभ्यः गृहं भोपाल नगरं न आगतः। अतः तस्मै गृहस्य वार्ता निवेदयन् एकं पत्रं लिखतु भवान्। सहायतार्थं शब्द मञ्जूषा प्रदत्ता
अस्ति ।

(आप नर्मदेश्वर हैं। आपके पिताजी उज्जैन नगर में सरकारी सेवा करते हैं। वे छह महीनों से घर भोपाल नहीं आए हैं। अतः उन्हें घर की बात को बताते हुए एक पत्र लिखिए। सहायता हेतु शब्द मंजूषा दी गई है।)

10/18 आर्य नगरम्
भोपाल (मध्यप्रदेशः)
दिनाङ्कः 07-02-20 …………………..

सेवायाम्, पूज्यपितृः (i)……………….
सादरं प्रणामम्।
सविनयं (ii) ……….. वर्तते यत् अत्र सर्वं कुशलम् अस्ति। भवतां (iii) ……….. ज्ञातुम् इच्छामि। षट् मासाः व्यतीताः भवतः अत्र (iv)……………. न अभवत्। किं भवता अवकाशं न प्राप्तम्? अत्र सर्वे जनाः (v)………… सन्ति। मातृचरणाः तु दिवानिशं भवतामेव स्मरणं कुर्वन्ति। कृपया (vi)…………. भवान् द्वित्रि वा दिवसेभ्यः अत्र आगच्छेत्। तत्र भवतः (vii)……….. कीदृशम् अस्ति? भोजन-निवासादि (viii)……….. कीदृशम् अस्ति? कृपया लिखतु भवान्। मम महाविद्यालये सम्प्रति स्नातकोत्तर कक्षाणां छात्राणां परीक्षा चलति अत: (ix) ………………..
अवकाशः विद्यते। गृहे सर्वे जनाः स्वस्थाः सन्ति। कृपया स्वागमनस्य वार्ता शीघ्रमेव सूचयतु भवान्।

भवतां पुत्रः
(x)…….

मञ्जूषा-व्याकुलाः, नर्मदेश्वरः, कुशलतां, पितृचरणाः, अस्माकम्, निवेदनं, व्यवहारं, आगमनं, शीघ्रमेव, स्वास्थ्यं

उत्तर:

10/18 आर्य नगरम्
भोपाल (मध्यप्रदेश:)
दिनाङ्कः 07-02-20……………..

 

सेवायाम्, पूज्यपादाः (i) पितृचरणाः
सादरं प्रणामम्।
सविनयं (ii) निवेदनं वर्तते यत् अत्र सर्वं कुशलम् अस्ति। भवतां (iii) कुशलतां ज्ञातुम् इच्छामि। षट् मासाः व्यतीताः भवतः अत्र (iv) आगमनं न अभवत्। किं भवता अवकाशं न प्राप्तम्? अत्र सर्वे जनाः (v) व्याकुलाः सन्ति। मातृ चरणाः तु दिवानिशं भवतामेव स्मरणं कुर्वन्ति। कृपया (vi) शीघ्रमेव भवान् द्वित्रि वा दिवसेभ्यः अत्र आगच्छेत्। तत्र भवतः (vii) स्वास्थ्यं कीदृशम् अस्ति? भोजन-निवासादि (viii) व्यवहारं कीदृशम् अस्ति? कृपया लिखतु भवान्। मम महाविद्यालये सम्प्रति स्नातकोत्तर कक्षाणां छात्राणां परीक्षा चलति अत: (ix) अस्माकम् अवकाशः विद्यते। गृहे सर्वे जनाः स्वस्थाः सन्ति। कृपया स्वागमनस्य वार्ता शीघ्रमेव सूचयतु भवान्।

भवतां पुत्र (x)
नर्मदेश्वरः

प्रश्न 13.
भवतः नाम रविकान्तः अस्ति। भवान् नवमी कक्षायां पठति। अद्य भवतः गृहे अनेके अतिथयः आगमिष्यन्ति।अतः तेषां व्यवस्थायै भवान् विद्यालयात् एकस्य दिवसस्य अवकाशं प्राप्तुम् इच्छति। एतदर्थं मञ्जूषायाः पदानि नीत्वा इदं प्रार्थना पत्रं पूरयतु भवान्। (आपका नाम रविकान्त है। आप नवमी कक्षा में पढ़ते हैं। आज आपके घर में अनेक अतिथि आएँगे। इसलिए उनकी व्यवस्था के लिए आप विद्यालय से एक दिन की छुट्टी पाना चाहते हैं। इसके लिए मंजूषा से शब्दों
को लेकर इस प्रार्थना पत्र को आप भरिए।)

क.ख.ग. विद्यालयः
नव दिल्ली
तिथि: 5.8.20……………

सेवायाम् ,
श्रीमन्तः प्रधानाचार्य महोदया:
(i) …………..
टैगोर गार्डन, नव दिल्ली
विषय : एकस्य दिवसस्य (ii) …………. प्रार्थनापत्रम्
महोदया:!
सविनयं निवेद्यते यत् अहं भवतां विद्यालयस्य (iii)……………. कक्षायाः छात्रोऽस्मि। अद्य मम (iv)…………….. अनेके अतिथयः आगमिष्यन्ति। यतः आगामी (v) …………..मम भ्रातुः विवाहः भविष्यति, तद् (vi)……………….. एव अभिलक्ष्य ते अतिथयः (vii)…………….. कर्तुम् आगामिष्यन्ति। अतः भवद्भ्यः (viii)…………….. वर्तते यत् कृपया (ix)…………….. एकस्य दिवसस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।
महती कृपा भविष्यति।

भवदीयः शिष्यः
(x)……………..

मञ्जूषा-रविकान्तः, गृहे, अवकाशार्थं, मासे, राजकीय वरिष्ठ माध्यमिक विद्यालयः, मह्यम्, नवमी, कार्यक्रमम, विचार, निवेदनं।
उत्तर:

क.ख.ग. विद्यालयः
नव दिल्ली तिथि: 5.8.20…………..
सेवायाम,

श्रीमन्तः प्रधानाचार्य महोदयाः
(i) राजकीय वरिष्ठ माध्यमिक विद्यालयः
टैगोर गार्डन, नव दिल्ली
विषय : एकस्य दिवसस्य (ii) अवकाशार्थं प्रार्थनापत्रम्

महोदयाः! सविनयं निवेद्यते यत् अहं भवतां विद्यालयस्य (iii) नवमी कक्षायाः छात्रोऽस्मि। अद्य मम (iv) गृहे अनेके अतिथयः आगमिष्यन्ति। यतः आगामी (v) मासे मम भ्रातुः विवाहः भविष्यति, तद् (vi) कार्यक्रमम् एव अभिलक्ष्य ते अतिथयः (vii) विचारं कर्तुम् आगमिष्यन्ति। अतः भवद्भ्यः (viii) निवेदनं वर्तते यत् कृपया (ix) मह्यम् एकस्य दिवसस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः। महती कृपा भविष्यति।

भवदीयः शिष्यः
(x) रविकान्तः

प्रश्न 14.
भवान् प्रियंवदः पश्चिमी दिल्ली क्षेत्रस्य मधुविहारे वसति। भवतः क्षेत्रे द्विनद्वयात् विद्युत् न आगच्छत्। अतः
सर्वे क्षेत्रवासिनां पक्षतः आवासीय-कल्याण-संगठनस्य (R.W.A.) सचिवं प्रति तं निवेदयितुम् समस्यायाः समाधानाय इदं पत्रं मञ्जूषायाः पदानां सहायतया लिखतु भवान्। (आप प्रियंवद पश्चिमी दिल्ली क्षेत्र के मधु विहार क्षेत्र में रहते हैं। आपके क्षेत्र में दो दिनों से बिजली नहीं आई। इसलिए सब क्षेत्रवासियों की ओर से आवासीय-कल्याण-संगठन (R.W.A.) के मंत्री को समस्या के समाधान हेतु निवेदन करते हुए मंजूषा के शब्दों की सहायता से आप पत्र लिखिए।)

गृहसंख्या 10, वीथिका संख्या-2
मधुविहार, नव दिल्ली
दिनाङ्कः 10.10.20……..

सेवायाम्,
सचिवः
आवासीय-कल्याण-संगठनम् (R.W.A.)
(i) ………
नव दिल्ली
विषय : वीथिका संख्या द्वयस्य क्षेत्रस्य विद्युत् समास्यायाः समाधानाय निवेदनम्।
महोदय,
निवेदनम् अस्ति यत् अस्माकं (ii) ………… विगत द्विनद्वयात् विद्युत् न (iii)…………अतः सर्वे जनाः महिलाः बालाश्च अतीव दु:खिनः सन्ति। सम्प्रति तु (iv) …………….. परीक्षाः भवन्ति। वर्षाकालः अपि वर्तते। स्थान-स्थाने तु (v) …………….. एव दृश्यते। अनेन जनानां सामान्य व्यवहारमेव न चलति। अहम् अनेकवारं विद्युत्-. विभागस्य (vi) ……………. निवेदितवान्। परम् केवलं आश्वासनम् एव (vi) ……………. अभवत्। कार्यस्य उपरि केतापि ध्यान न दत्तम्। अतः भवद्भ्यः प्रार्थये यत् अस्याः (viii) …………….. समाधानं शीघ्रमेव कारयतु भवान्; येन सर्वेषां कष्टानि दूरी भवन्तु। भवदीयः (ix) ……………. आभारिणः भविष्यामः। सधन्यवादम्

निवेदका:
(x) ……..

मञ्जूषा-सर्वे विथिकावासिनः, समस्यायाः, मधुविहारम्, वयम्, छात्राणां, प्राप्तम्, क्षेत्रे, जलम्, अधिकारिणः, आगच्छत्।

उत्तर:
गृहसंख्या
वीथिका संख्या-2
मधुविहार, नव दिल्ली
दिनाङ्कः 10.10.20……. सेवायाम्, सचिवः आवासीय-कल्याण-संगठनस्य (R.W.A.) (i) मधुविहारम्, नव दिल्ली विषय : वीथिका संख्या द्वयस्य क्षेत्रस्य विद्युत् समास्यायाः समाधानाय निवेदनम्। महोदय, निवेदनम् अस्ति यत् अस्माकं (ii) क्षेत्रे विगत द्विनद्वयात् विद्युत् न (iii) आगच्छत्। अतः सर्वे जनाः महिलाः बालाश्च अतीव दु:खिनः सन्ति। सम्प्रति तु (iv) छात्राणां परीक्षाः भवन्ति। वर्षाकालः अपि वर्तते। स्थान-स्थाने तु (v) जलम् एव दृश्यते। अनेन जनानां सामान्य व्यवहारमेव न चलति। अहम् अनेकवारं विद्युत्-विभागस्य (vi) अधिकारिणः निवेदितवान्। परम् केवलं आश्वासनम् एव (vii) प्राप्तम् अभवत्। कार्यस्य उपरि केनापि ध्यानं न दत्तम्। अतः भवद्भ्यः प्रार्थये यत् अस्याः (viii) समस्यायाः, समाधानं शीघ्रमेव कारयतु भवान्; येन सर्वेषां कष्टानि दूरी भवन्तु। भवदीयः (ix) वयम् आभारिणः भविष्यामः।
सधन्यवादम्

निवेदकाः
(x) सर्वे वीथिकावासिनः

प्रश्न 15.
मञ्जूषायां प्रदत्तानां पदानां सहायतया पुस्तक-प्रेषणार्थं प्रकाशकं प्रति पत्रम् लिखत।
(मञ्जूषा में दिए गए शब्दों की सहायता से पुस्तक भेजने के लिए प्रकाशक को पत्र लिखिए।)
सेवायाम्,
श्रीमान् (i) ………….. ,
(ii) ………………,
जवाहरलाल नेहरू मार्गः, पुणे।
मान्यवराः,
अहं (iii) ………….. छात्रः अस्मि । भवद्भिः सद्यः प्रकाशितानि नवमकक्षायाः (iv) ………….. मया (v) अहं तेषु कानिचित् पुस्तकानि क्रेतुम् इच्छामि। कृपया अधोलिखितानि पाठ्यपुस्तकानि (vi) ……………. द्वारा शीघ्र (vii) …………..।
1. सरल संस्कृत व्याकरणम्।
2. शेमुषी संस्कृत पाठ्यपुस्तकम्।
(viii) ………………….
(ix) …………,
आलोकनाथः
(x) ……………….,
हिमगिरि आवास योजना
नव दिल्ली -110090

मञ्जूषा-नवमकक्षायाः, प्रबन्धक-महोदयः, गृहसंख्या 27, श्री अक्षर प्रकाशन संस्था, पाठ्यपुस्तकानि, वी.पी.पी.,भवताम् विश्वासपात्रः, प्रेषणीयानि, दृष्टानि, सधन्यवादम्।
उत्तर:
सेवायाम्, श्रीमान् (i) प्रबन्धक-महोदयः,
(ii) श्री अक्षर प्रकाशन संस्था,
जवाहरलाल नेहरू मार्गः, पुणे।
मान्यवराः, अहं (iii) नवमकक्षायाः छात्रः अस्मि । भवद्भिः सद्यः प्रकाशितानि नवमकक्षायाः (iv) पाठ्यपुस्तकानि मया (v) दृष्टानि। अहं तेषु कानिचित् पुस्तकानि क्रेतुम् इच्छामि। कृपया अधोलिखितानि पाठ्यपुस्तकानि (vi) वी.पी.पी. द्वारा शीघ्रं (vii) प्रेषणीयानि।
1. सरल संस्कृत व्याकरणम्।
2. मणिका संस्कृत अभ्यासपुस्तकम् ।
(viii) सधन्यवादम्।

(ix) भवताम् विश्वासपात्रः,
आलोकनाथः
(x) गृहसंख्या 27,
हिमगिरि आवास योजना
नव दिल्ली -110090